Pages

Showing posts with label आदिशन्कराचार्य. Show all posts
Showing posts with label आदिशन्कराचार्य. Show all posts

अजम् निर्विकल्पम्

Wednesday, 1 January 2014

साहित्यम् - आदिशंकराचार्यः

अजम् निर्विकल्पम् निराकारमॆकम्
निरानंदमानंदमद्वैतपूर्णं
परम् निर्गुणम् निर्विशॆषम् निरीहम्
परब्रह्मरूपम् गणॆशम् भजॆम ॥१॥

गुणातीतमानम् चिदानंदरूपम्
चिदाभासकम् सर्वगम् ज्ञानगम्यम्
मुनिध्यॆयमाकाशरूपम् परॆशम्
परब्रह्मरूपम् गणॆशम् भजॆम ॥२॥

जगत्कारणम् कारणज्ञानरूपम्
सुरादिम् सुखादिम् गुणॆशम् गणॆशम्
जगद्व्यापिनम् विश्ववंद्यम् सुरॆशम्
परब्रह्मरूपम् गणॆशम् भजॆम ॥३॥

Read more...

शिवनामावल्याष्टकम्

Saturday, 2 March 2013

साहित्यम् - आदिशंकराचार्यः

हे चन्द्रचूड मदनांतक शूलपाणे स्थाणो गिरीश गिरजेश महेश शंभो ।
भूतेश भीतभयसूदन मामनाथम् संसारदुःखगहनाज्जगदीश रक्ष ॥१॥

हे पार्वतीहृदयवल्लभ चन्द्रमौले भूताधिप प्रमथनाथ गिरीशजाप ।
हे वामदेव भवरुद्र पिनाकपाणे संसारदुःखगहनाज्जगदीश रक्ष ॥२॥

हे नीलकंठ वृषभध्वज पञ्चवक्त्र लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते माम् संसारदुःखगहनाज्जगदीश रक्ष ॥३॥

हे विश्वनाथ शिव शंकर देवदेव गंगाधर प्रमथनायक नंदिकेश ।
बाणेश्वराधिकरपो हर लोकनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥४॥

वाराणसीपुरपते मणिकर्णिकेश वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वहृदयैकनिवास नाथ संसारदुःखगहनाज्जगदीश रक्ष ॥५॥

श्रीमन्महेश्वर कृपामय हे दयालो हे व्योमकेश शितिकंठ गणाधिनाथ ।
भस्मांगराज नृकपालकलापमाल संसारदुःखगहनाज्जगदीश रक्ष ॥६॥

कैलासशैलविनिवास वृषाकपे हे मृत्युञ्जय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ संसारदुःखगहनाज्जगदीश रक्ष ॥७॥

विश्वेश विश्वभवनाशक विश्वरूप विश्वात्मक त्रिभुवनैकगुणाभिवेश ।
हे विश्ववन्द्य करुणामय दीनबन्धो संसारदुःखगहनाज्जगदीश रक्ष ॥८॥

गौरीविलासभवनाय महेश्वराय पञ्चाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै दारिद्र्यदुःखदहनाय नमः शिवाय ॥

Read more...

श्री अन्नपूर्णास्तोत्रम्‌

Saturday, 17 December 2011

साहित्यम् - आदिशंकराचार्यः


नित्यानन्दकरी वराभयकरी सौंदर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपुर्णेश्वरी॥१॥

नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमान विलसद्वक्षोजकुम्भान्तरी।
काश्मीराऽगुरुवासितांगरुचिरा काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥२॥

योगानन्दकरी रिपुक्षयकरी धर्मैकनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी।
सर्वैश्वर्यसमस्तवांछितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥३॥

कैलासाचलकन्दरालयकरी गौरी उमा शंकरी
कौमारी निगमार्थगोचरकरी ॐकारबीजाक्षरी।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥४॥

दृश्याऽदृश्यप्रभूतवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपांकुरी।
श्री विश्वेशमन प्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥५॥

उर्वी सर्वजनेश्वरी भगवती माताऽन्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलहरी नित्यान्नदानेश्वरी।
सर्वानन्दकरी दृशांशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥६॥

आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरा त्रिजलेश्वरी त्रिलहरी नित्यांकुरा शर्वरी।
कामाकांक्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥७॥

देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुंदरी
वामस्वादु पयोधरप्रियकरी सौभाग्यमाहेश्वरी।
भक्ताऽभीष्टकरी दशाशुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥८॥

चर्न्द्रार्कानल कोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुन्तलहरी चन्द्रार्कवर्णेश्वरी।
मालापुस्तकपाशसांगकुशधरी काशीपुराधीश्वरी
शिक्षां देहि कृपावलम्बनकरी माताऽन्नपूर्णेश्वरी॥९॥

क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवंकरी विश्वेश्वरी श्रीधरी।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलंबनकरी माताऽन्नपूर्णेश्वरी॥१०॥

अन्नपूर्णे सदा पूर्णे शंकरप्राणवल्लभे।
ज्ञानवैराग्यसिद्ध्‌यर्थं भिक्षां देहि च पार्वति॥११॥
माता च पार्वती देवी पिता देवो महेश्वरः।
बान्धवाःशिवभक्ताश्च स्वदेशो भुवनत्रयम्‌॥१२॥

॥ इति श्रीमच्छंकराचार्यविरचितम्‌ अन्नपूर्णास्तोत्रं सम्पूर्णम्‌ ॥

Read more...

भज गॊविन्दं

Thursday, 25 August 2011

साहित्यम्-आदिशन्कराचार्य


भज गॊविन्दं भज गॊविन्दं गॊविन्दं भज मूढमतॆ ।
सम्प्राप्तॆ सन्निहितॆ कालॆ नहि नहि रक्षति डुक्रिङ्करणॆ ॥१॥

मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिम् मनसि वितृष्णाम् ।
यल्लभसॆ निजकर्मॊपात्तं वित्तं तॆन विनॊदय चित्तम् ॥२॥

नारीस्तनभर नाभीदॆशं दृष्ट्वा मा गा मॊहावॆशम् ।
ऎतन्मांसवसादि विकारं मनसि विचिन्तय वारंवारम् ॥३॥

नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् ।
विद्धिव्याध्यभिमानग्रस्तं लॊकं शॊकहतं च समस्तम् ॥४॥

यावद्वित्तॊपार्जनसक्तः तावन्निजपरिवारॊरक्तः ।
पश्चाज्जीवति जर्जरदॆहॆ वार्तां कॊ‌Sपि न पृच्छति गॆहॆ ॥५॥

यावत्पवनॊ निवसति दॆहॆ तावत्पृच्छति कुशलं गॆहॆ ।
गतवति वायौ दॆहापायॆ भार्या बिभ्यति तस्मिन् कायॆ ॥६॥

बालस्तावत् क्रीडासक्तः तरुणस्तावत् तरुणीसक्तः ।
वृद्धस्तावत् चिन्तामग्नः परमॆ ब्रह्मणि कॊ‌Sपि न लग्नः ॥७॥

का तॆ कान्ता कस्तॆ पुत्रः संसारॊ‌Sयमतीव विचित्रः ।
कस्य त्वं वा कुत आयातः तत्वं चिन्तय तदिह भ्रातः ॥८॥

सत्सङ्गत्वॆ निस्सङ्गत्वं निस्सङ्गत्वॆ निर्मॊहत्वम् ।
निर्मॊहत्वॆ निश्चलतत्त्वं निश्चलतत्त्वॆ जीवन्मुक्तिः ॥९॥

वयसि गतॆ कः कामविकारः शुष्कॆ नीरॆ कः कासारः ।
क्षीणॆ वित्तॆ कः परिवारः ज्ञातॆ तत्त्वॆ कः संसारः ॥१०॥

मा कुरु धनजन यौवन गर्वं हरति निमॆषात् कालः सर्वम् ।
मायामयमिदम् अखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥११॥

दिनयामिन्यौ सायंप्रातः शिशिरवसन्तौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुः तदपि न मुञ्चत्याशावायुः ॥१२॥

द्वादश मञ्जरिकाभिर शॆषः कथितॊ वैयाकरणस्यैषः ।
उपदॆशॊ भूद्विद्या निपुणैः श्रीमच्छङ्करभगवच्छरणैः ॥१३॥

का तॆ कान्ता धन गत चिन्तावातुल किं तव नास्ति नियन्ता ।
त्रिजगति सज्जन सङ्गतिरॆका भवति भवार्णव तरणॆ नौका ॥१४॥

जटिलॊ मुण्डी लुञ्जित कॆशः काषायाम्बर बहुकृत वॆषः ।
पश्यन्नपि च न पश्यति मूढः उदर निमित्तं बहुकृत वॆषः ॥१५॥

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् ।
वृद्धॊ याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम् ॥१६॥

अग्रॆ वह्निः पृष्ठॆ भानुः रात्रौ चुबुक समर्पित जानुः ।
करतल भिक्षस्-तरुतल वासः तदपि न मुञ्चत्याशा पाशः ॥१७॥

कुरुतॆ गङ्गा सागर गमनं व्रत परिपालनम् अथवा दानम् ।
ज्ञान विहीनः सर्वमतॆन भजति न मुक्तिं जन्म शतॆन ॥१८॥

सुरमन्दिर तरुमूल निवासः शय्या भूतलम् अजिनं वासः ।
सर्व परिग्रह भॊगत्यागः कस्य सुखं न करॊति विरागः ॥१९॥

यॊगरतॊ वा भॊगरतॊ वा सङ्गरतॊ वा सङ्गविहीनः ।
यस्य ब्रह्मणि रमतॆ चित्तं नन्दति नन्दति नन्दत्यॆव ॥२०॥

भगवद्गीता किञ्चिदधीता गङ्गा जललव कणिका पीता ।
सकृदपि यॆन मुरारी समर्चा क्रियतॆ तस्य यमॆन न चर्चा ॥२१॥

पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरॆ शयनम् ।
इह संसारॆ बहु दुस्तारॆ कृपया‌पारॆ पाहि मुरारॆ ॥२२॥

रथ्या चर्पट विरचित कन्थः पुण्यापुण्य विवर्जित पन्थः ।
यॊगी यॊग नियॊजित चित्तः रमतॆ बालॊन्मत्तवदॆव ॥२३॥

कस्त्वं कॊ‌Sहं कुत आयातः का मॆ जननी कॊ मॆ तातः ।
इति परिभावय निज संसारं सर्वं त्यक्त्वा स्वप्न विचारम् ॥२४॥

त्वयि मयि सर्वत्रैकॊ विष्णुः व्यर्थं कुप्यसि मय्यसहिष्णुः ।
भव समचित्तः सर्वत्र त्वं वाञ्छस्यचिराद्यदि विष्णुत्वम् ॥२५॥

शत्रौ मित्रॆ पुत्रॆ बन्धौ मा कुरु यत्नं विग्रह सन्धौ ।
सर्वस्मिन्नपि पश्यात्मानं सर्वत्रॊत्-सृज भॆदाज्ञानम् ॥२६॥

कामं क्रॊधं लॊभं मॊहं त्यक्त्वा‌Sत्मानं पश्यति सॊ‌Sहम् ।
आत्मज्ञ्नान विहीना मूढाः तॆ पच्यन्तॆ नरक निगूढाः ॥२७ ॥

गॆयं गीता नाम सहस्रं ध्यॆयं श्रीपति रूपम् अजस्रम् ।
नॆयं सज्जन सङ्गॆ चित्तं दॆयं दीनजनाय च वित्तम् ॥२८॥

सुखतः क्रियतॆ रामाभॊगः पश्चाद्धन्त शरीरॆ रॊगः ।
यद्यपि लॊकॆ मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥२९ ॥

अर्थमनर्थं भावय नित्यं नास्ति ततः सुख लॆशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥३०॥

प्राणायामं प्रत्याहारं नित्यानित्य विवॆक विचारम् ।
जाप्यसमॆत समाधि विधानं कुर्व वधानं महद्-अवधानम् ॥३१॥

गुरु चरणाम्भुज निर्भरभक्तः संसाराद्-अचिराद्-भव मुक्तः ।
सॆन्दिय मानस नियमादॆवं द्रक्ष्यसि निज हृदयस्थं दॆवम् ॥३२॥

मूढः कश्चिन वैयाकरणॊ डुकृण्करणाध्ययन धुरीणः ।
श्रीमच्छङ्कर भगवच्चिष्यैः बॊधित आसीच्छॊदित करणैः ॥३३॥

Read more...

शिव मानसपूजा

साहित्यम्-आदिशन्कराचार्य


रत्नैर्कल्पितमासनं हिमजलैर्स्नानं च दिव्याम्बरं
नानारत्न विभूषितं मृगमदा मॊदाङ्कितं चन्दनम् ।
जाजीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं दॆव दयानिधॆ पशुपतॆ हृत्कल्पितं गृह्यताम् ॥१॥

सौवर्णॆ नवरत्नखण्डखचितॆ पात्रॆ घृतं पायसं
भक्ष्यं पञ्चविधं पयॊदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूर खण्डॊज्ज्चलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभॊ स्वीकुरु ॥२॥

छत्रं चामरयॊर्युगं व्यजनकं चादर्शकं निर्मलं
वीणा भॆरि मृदङ्ग काहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधैर्येतत् समस्तं मया
सङ्कल्पॆन समर्पितं तव विभॊ पूजांगृहाण प्रभॊ ॥३॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा तॆ विषयॊपभॊगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयॊः प्रदक्षिणविधिः स्तॊत्राणि सर्वा गिरॊ
यद्यत्कर्म करॊमि तत्तदखिलं शम्भॊ तवाराधनम् ॥४॥

कर चरण कृतं वाक्कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमॆतत् क्षमस्व
जय जय करुणाब्धॆ श्री महादॆव शम्भॊ ॥५॥

Read more...

Popular Posts