Pages

दुर्गा सूक्तम्

Wednesday 8 December 2010

दुर्गा सूक्तम्


जातवेदसे सुनवाम सोममरातीयतो निदहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुम् दुरितात्यग्निः ॥१॥

तामग्निवर्णाम् तपसा ज्वलन्तीं वैरोचनीम् कर्मफलेषु जुष्टाम् ।
दुर्गाम् देवीम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः ॥२॥

अग्ने त्वम् पारया नव्यो अस्मान् स्वस्तिभिरिति दुर्गाणि विश्वा ।
पूश्च पृथ्वी बहुलान उर्वी भवा तोकाय तनयाय शंयोः ॥३॥

विश्वानि नो दुर्गहा जातवेदस्सिन्धुम् न नावा दुरितातिपर्षि ।
अग्ने अत्रिवन्मनसा गृणानोऽस्माकम् बोधयित्वा तनूनाम् ॥४॥

पृतनाजिताम् सहमानमुग्रमग्नीम हुवेम परमाथ्सधस्थात् ।
स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अतिदुरितात्यग्निः ॥५॥

प्रत्नोषिकमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सथ्सि ।
स्वांचाग्ने पिप्रयस्वास्मभ्यम् च सौभाग्यमायजस्व ॥६॥

गोभिर्जुष्टमयुजोनिषित्क्तम् तवेन्द्र विष्णोरनुसंचरेम ।
नाकस्य पृष्ठमभिसंवसानो वैष्णवीम् लोक इह मादयन्ताम् ॥७॥

कात्यायनाय विद्महे कन्यकुमारी धीमहि।
तन्नो दुर्गिः प्रचोदयात् ॥

Explanation and
Discussion

Read more...

Popular Posts